मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ४

संहिता

मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् ।
मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥

पदपाठः

मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् ।
मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥

सायणभाष्यम्

एतदादयः प्रत्यक्षाः हे इन्द्र त्वा त्वां यज्ञियानां यज्ञार्हाणां देवानामपि यज्ञियं पुरस्तादेव यज्ञार्हमितिमन्ये अवबुध्ये । तथा त्वा त्वां अच्युतानां च्युतिरहितानामपि पर्व तानां च्यवनं च्यावयितारं वज्रेण विभेदकमिति मन्ये जानामि । यद्वा अच्युतानां बलेनच्यावयितुमशक्यानां बलिनां वीराणां अपि स्वबलेन विद्रावयितारमिति जाने । किंच हेइन्द्र सत्वनां सत्वानां षणसंभक्तौ क्वनिप् संभजमानानां भटानां केतुमुच्छ्रितमिति मन्ये । यद्वा सत्वानां स्तुतिभिर्हविर्भिर्वा संभक्तॄणां यष्टृणां केतुं आत्मनः प्रज्ञापकं तेषां पूजनीयमितिवा मन्ये । तथा त्वा त्वां चर्षणीनां मनुष्याणां वृषभं अभिमतफलवर्षकमिति मन्ये जानामि ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२