मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ८

संहिता

त्रिः ष॒ष्टिस्त्वा॑ म॒रुतो॑ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो॑ य॒ज्ञिया॑सः ।
उप॒ त्वेमः॑ कृ॒धि नो॑ भाग॒धेयं॒ शुष्मं॑ त ए॒ना ह॒विषा॑ विधेम ॥

पदपाठः

त्रिः । ष॒ष्टिः । त्वा॒ । म॒रुतः॑ । व॒वृ॒धा॒नाः । उ॒स्राःऽइ॑व । रा॒शयः॑ । य॒ज्ञिया॑सः ।
उप॑ । त्वा॒ । आ । इ॒मः॒ । कृ॒धि । नः॒ । भा॒ग॒ऽधेय॑म् । शुष्म॑म् । ते॒ । ए॒ना । ह॒विषा॑ । वि॒धे॒म॒ ॥

सायणभाष्यम्

प्रसंगादेतावन्तोमरुतः सहायाअभन्नित्याह-हे इन्द्र त्रिः त्रयः जसः सुपांसुलुगितिसुः षष्टिः षष्ट्युत्तरं त्रिसंख्याका मरुतः । तेच तैत्तिरीयके-ईदृङ्- चान्यादृङ्चेत्यादिना नवसुगणेषु सप्तसप्तनिपादिताः । तत्र आदिपंचगणाः संहितायामाम्नायन्ते स्वतवांश्च प्रघासीच सांतपनश्च गृहमेधीच क्रीडीच शाकीचोज्जषीचेति । खैलिकः षष्ठोगणः ततोधुनिश्च ध्वान्तश्चेत्याद्यास्त्रयोरण्येनुवाक्याः । इत्थं त्रयः षष्टिसंख्याकाः उस्राइवराशयः गावइव संघीभूतास्ते त्वा त्वां वावृधानाः स्वबलेन वर्धितवन्तः तेमरुतः यज्ञियासो यज्ञार्हाअभवन् । तं मरुत्सहायमिन्द्रं त्वा त्वां वयं एमः उपगच्छामः ततस्त्वं नोस्मभ्यं भागधेयं भजनीयं धनं कृधिकुरु । पश्चाद्वयमपि एना एनेन सोमलक्षणेन हविषा ते तुभ्यं शुष्मं शत्रूणां शोषकं बलं विधेम । विधविधाने विदध्म कुर्मइत्यर्थः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३