मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ९

संहिता

ति॒ग्ममायु॑धं म॒रुता॒मनी॑कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं॑ दधर्ष ।
अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ॥

पदपाठः

ति॒ग्मम् । आयु॑धम् । म॒रुता॑म् । अनी॑कम् । कः । ते॒ । इ॒न्द्र॒ । प्रति॑ । वज्र॑म् । द॒ध॒र्ष॒ ।
अ॒ना॒यु॒धासः॑ । असु॑राः । अ॒दे॒वाः । च॒क्रेण॑ । तान् । अप॑ । व॒प॒ । ऋ॒जी॒षि॒न् ॥

सायणभाष्यम्

हे इन्द्र ते तव स्वभूतं तिग्मं तीक्ष्णमायुधं आयुध्यतेनेनेति आयुधं धनुः तत्र मरुतां त्रयःषष्टिसंख्याकानां त्वत्सहायानां अनीकं संघंच त्वदीयं वज्रंच कः कोवा देवोमनुष्योवा प्रतिदधर्ष प्रतिकूलमभिभवति अभिभावुकोनास्तीत्यर्थः । धनुराद्यायुधवर्जिता अदेवाः देववर्जिता देवद्विषोये असुराः सन्ति हे ऋजीषिन् अपार्जितोभिषुत्यः सोम ऋजीषी तद्वन्निन्द्र तानसुरान चक्रेण चक्रसमानवीर्येण चक्ररूपेण वज्रेण वा अपवप अपगतान्कुरु अपनुदेत्यर्थः ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३