द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर॑न्तमुपह्व॒रे न॒द्यो॑ अंशु॒मत्या॑ः ।
नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या॑मि वो वृषणो॒ युध्य॑ता॒जौ ॥
द्र॒प्सम् । अ॒प॒श्य॒म् । विषु॑णे । चर॑न्तम् । उ॒प॒ऽह्व॒रे । न॒द्यः॑ । अं॒शु॒ऽमत्याः॑ ।
नभः॑ । न । कृ॒ष्णम् । अ॒व॒त॒स्थि॒ऽवांस॑म् । इष्या॑मि । वः॒ । वृ॒ष॒णः॒ । युध्य॑त । आ॒जौ ॥
चतुर्थः पादोमारुतः मरुतः प्रति यद्वाक्यमिन्द्रउवाच । तदत्रकीर्त्यते हे मरुतः द्रप्सं द्रुतगामिनं कृष्णमहमपश्यं अदर्शम् । कुत्रवर्तमानं विषुणे विष्वगंचने सर्वतोविस्तृतेदेशे यद्वा विषुणे विषमे परैरदृश्ये देशे चरन्तं परितोगच्छन्तं किंच अंशुमत्याः एतन्नामिकायानद्यो नद्याः उपह्वरे अत्यन्तंगूढे स्थाने नभोन नभसि यथादित्योदीप्यते तद्वतत्र दीप्यमानं अवतस्थिवांसं उदकस्यान्तरवस्थितं कृष्णं एतन्नामकं असुरं अपश्यं तस्मिन् दृष्टेसति हे वृषणः कामानामुदकानांवा सेक्तारोमरुतः वोयुष्मान् युद्धार्थं इष्यामि अहमिच्छामि । ततोयूयं तमिमं कृष्णं आजौ अजन्ति गच्छन्त्यत्रयोद्धारः आयुधानि प्रक्षेपयन्तीतिवा आजिः संग्रामः तस्मिन् युध्यत संहरत वाक्यभेदादनिघातः । केचिदिष्यामिवोमरुतइतिपठन्ति । तत्र हेमरुतः वोयुष्मानिच्छामीत्यर्थोभवति ॥ १४ ॥