मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १६

संहिता

त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो॑ अभव॒ः शत्रु॑रिन्द्र ।
गू॒ळ्हे द्यावा॑पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं॑ धाः ॥

पदपाठः

त्वम् । ह॒ । त्यत् । स॒प्तऽभ्यः॑ । जाय॑मानः । अ॒श॒त्रुऽभ्यः॑ । अ॒भ॒वः॒ । शत्रुः॑ । इ॒न्द्र॒ ।
गू॒ळ्हे इति॑ । द्यावा॑पृथि॒वी इति॑ । अनु॑ । अ॒वि॒न्दः॒ । वि॒भु॒मत्ऽभ्यः॑ । भुव॑नेभ्यः । रण॑म् । धाः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं खलु तत् कर्म कृतवानसि । किंतत् उच्यते-जायमानस्त्वं प्रादुर्भवन्नेव अशत्रुभ्यः शत्रुरहितेभ्यः सप्तभ्यः कृष्णवृत्रनमुचिशंबरादिसप्तभ्यो- बलवद्भ्यः शत्रुभ्यः तदर्थं शत्रुरभवः । यद्वा सप्तभ्यः सप्तैवांगिरसः । सप्तभ्यः अंगिरोभ्यः गवानयनार्थं प्रादुर्भवन्ने वाशत्रुभ्योबलवद्भ्यः पणिभ्यः शत्रुरभवः । किंच हे इन्द्र त्वं गूह्ळे तमसा गूढे संवृते द्यावापृथिवी द्यावापृथिव्यौ सूर्यात्मना ते प्रकाश्य अनुक्रमेण अविन्दः अलभथाः । तथा विभुमद्भ्यः महत्त्वयुक्तेभ्योभुवनेभ्योलोकेभ्यः रणं रमणं धाः धारयसि विदधासीत्यर्थः ॥ १६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५