मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १७

संहिता

त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे॑ण वज्रिन्धृषि॒तो ज॑घन्थ ।
त्वं शुष्ण॒स्यावा॑तिरो॒ वध॑त्रै॒स्त्वं गा इ॑न्द्र॒ शच्येद॑विन्दः ॥

पदपाठः

त्वम् । ह॒ । त्यत् । अ॒प्र॒ति॒ऽमा॒नम् । ओजः॑ । वज्रे॑ण । व॒ज्रि॒न् । धृ॒षि॒तः । ज॒घ॒न्थ॒ ।
त्वम् । शुष्ण॑स्य । अव॑ । अ॒ति॒रः॒ । वध॑त्रैः । त्वम् । गाः । इ॒न्द्र॒ । शच्या॑ । इत् । अ॒वि॒न्दः॒ ॥

सायणभाष्यम्

हे इन्द्र त्वंह त्वंखलु त्यदेतत्कर्माकार्षीः । किंतत् अभिधीयते-यतः हेवज्रिन् वज्रवन्निन्द्र धृषितः धृष्टः संग्रामेषु शत्रुहनने कुशलःसन् । यद्वा धृष्टोधीरःसन् अप्रतिमानं प्रतिमानमुपमा । निरुपमं अस्य सदृशं अन्यदीयं वीर्यं नास्तीत्यर्थः । तादृशं शुष्णस्य ओजोबलं वज्रेणायुधेन जघंथ हतवानसि । अभ्यासाच्चेति हंतेर्घत्वम् । पूर्वं शुष्णस्य बलं विनाश्य इदानीं शुष्णमपिहतवानित्याह-त्वं वधत्रैः हननसाधनैः आयुधैः शुष्णस्य । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । शुष्णमवातिरः कुत्साय राजर्षये अवाङ्मुखं कृत्वा अवधीः । तथाचनिगमः-कुत्सायशुष्णमशुषंनिबर्हीरिति । तथा हे इन्द्र त्वं शच्या स्वकीयया प्रज्ञया कर्मणावा गाः शत्रून्हत्वा तेषां गाअविन्दः अलभथाः । यद्वा अंगिरसां गाः पणीन् संप्रहृत्य लब्धवानसि ॥ १७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५