मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १८

संहिता

त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां॑ तवि॒षो ब॑भूथ ।
त्वं सिन्धूँ॑रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ॥

पदपाठः

त्वम् । ह॒ । त्यत् । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् । घ॒नः । वृ॒त्राणा॑म् । त॒वि॒षः । ब॒भू॒थ॒ ।
त्वम् । सिन्धू॑न् । अ॒सृ॒जः॒ । त॒स्त॒भा॒नान् । त्वम् । अ॒पः । अ॒ज॒यः॒ । दा॒सऽप॑त्नीः ॥

सायणभाष्यम्

त्वंखलु त्यत् तत्कर्मकृतवानसि । किंतत् हे वृषभ कामानां वर्षितरिन्द्र चर्षणीनां यष्टृणां मनुष्याणां भावितानां वृत्राणां उपद्रवाणां घनोहन्ता । अमुर्त्यर्थेपि छ्न्दोविषयत्वान्निपातनम् । तादृशस्त्वं तविषः प्रवृद्धोबलवान्वा बभूथ बभूविथ । बभूथाततंथेति इडभावोनिपात्यते । ततस्त्वं तस्तभानान् असुरैर्विरुध्यमानाः सिन्धून् सप्तगंगाद्यानदीः सरणायासृजः पश्चात् त्वंदासपत्नीः दासाउपक्षपयितारः शत्रवः तेपतयः स्वामिनो- यासांताः । नित्यंसपत्न्यादिष्वित्यत्र दासाच्चेत्युपसंख्यानात् ङीप् । असुरस्वामिकाः अपः अजयः जितवानसि तानसुरान् जित्वा उदकानिच प्रासज इत्यर्थः ॥ १८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५