मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १९

संहिता

स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे॑व रे॒वान् ।
य एक॒ इन्नर्यपां॑सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा॑हुः ॥

पदपाठः

सः । सु॒ऽक्रतुः॑ । रणि॑ता । यः । सु॒तेषु॑ । अनु॑त्तऽमन्युः । यः । अहा॑ऽइव । रे॒वान् ।
यः । एकः॑ । इत् । नरि॑ । अपां॑सि । कर्ता॑ । सः । वृ॒त्र॒ऽहा । प्रति॑ । इत् । अ॒न्यम् । आ॒हुः॒ ॥

सायणभाष्यम्

अथ परोक्षकृतः सइन्द्रः सुक्रतुः शोभनप्रज्ञः शोभनकर्मा वा भवति । यः सुतेष्वभिषुतेषु सोमेषु रणिता तत्पानार्थं रमणशीलः । किंच अनुत्तमन्युः परैरनुन्नक्रोधः शत्रुभिर्नेतुमशक्यः तादृशोयः इन्द्रः रेवान् धनवान् । तत्रदृष्टान्तः-अहेव यथा अहानि दिवसाः धनवन्तः दिवसेषुहि धनानि प्रादुर्भवंति न शत्रिषु तद्वत् । तथा यइन्द्रः एकइत् असहायएव नरि कर्मनेतरि मनुष्ये अपांसि कर्माणि कर्ता कर्तुं शीलोभवति ताच्छीलिकस्तृन् अतएव षष्ठीप्रतिषेधः । सपूर्वोक्तगुणोपेतइन्द्रः वृत्रहा अपामावरकस्यासुरस्योपद्रवस्य वा हन्तृत्वात वृत्रहेति सर्वैः श्रूयते तमेवेन्द्रं अन्यं प्रति इदवधारणे अन्यंप्रत्येवाहुः इन्द्रः सर्वमन्यं शत्रुसंघं प्रतिभवति अभिभवत्येवेति वदन्ति ॥ १९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५