मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् २०

संहिता

स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं॑ हुवेम ।
स प्रा॑वि॒ता म॒घवा॑ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ॥

पदपाठः

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । च॒र्ष॒णि॒ऽधृत् । तम् । सु॒ऽस्तु॒त्या । हव्य॑म् । हु॒वे॒म॒ ।
सः । प्र॒ऽअ॒वि॒ता । म॒घऽवा॑ । नः॒ । अ॒धि॒ऽव॒क्ता । सः । वाज॑स्य । श्र॒व॒स्य॑स्य । दा॒ता ॥

सायणभाष्यम्

वृत्रहा वृत्रस्य हन्ता सइन्द्रश्चर्षणीधृत् मनुष्याणां धनादिदानेन पोषकोभवति तमिन्द्रं हव्यं आह्वातुं योग्यं वयं सष्टुत्या शोभनया स्तुत्या हुवेम अस्मद्यज्ञेष्वाह्वयामः । किमर्थं यूयमाह्वयथेतिचेत् कारणं ब्रूमः-सइन्द्रः प्राविता प्रकर्षेणास्माकं रक्षिताभवति । किंच मघवा धनवानिन्द्रः नोस्माकमधिवक्ता अधिकं वक्ता बहुमानेन वक्ता भवति । यद्वा धनदानेनास्मानधिकं वक्तुमर्हति । अर्हेकृत्यतृचश्चेति तृच् । किंच सएवेन्द्रः श्रवस्यस्य श्रवसः कीर्तेर्निमित्तस्य वाजस्यान्नस्य । यद्वा श्रवसोन्नस्य हिताय वाजस्य बलस्य दाता भवतिखलु । तस्मादेवंगुणमिन्द्रं वयमाह्वयामः ॥ २० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५