मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् २१

संहिता

स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो॑ बभूव ।
कृ॒ण्वन्नपां॑सि॒ नर्या॑ पु॒रूणि॒ सोमो॒ न पी॒तो हव्य॒ः सखि॑भ्यः ॥

पदपाठः

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । ऋ॒भु॒क्षाः । स॒द्यः । ज॒ज्ञा॒नः । हव्यः॑ । ब॒भू॒व॒ ।
कृ॒ण्वन् । अपां॑सि । नर्या॑ । पु॒रूणि॑ । सोमः॑ । न । पी॒तः । हव्यः॑ । सखि॑ऽभ्यः ॥

सायणभाष्यम्

ऋभुक्षाः समहान् । यद्वा ऋभुशब्देन ऋभ्वादयस्त्रयोगृह्यन्ते ऋभुभिः सह क्षियति निवसतीति तादृशः । वृत्रहा सइन्द्रः सद्यस्तदानीमेव जज्ञानः प्रादुर्भवन् हव्यः सर्वैः स्तोतृभिर्यष्टृभिराह्वातव्योबभूव । किंच नर्या नर्याणि नरा मनुष्याः कर्मनेतारः तेभ्योहितानि पुरूणि बहूनि अपांसि कर्माणि कृण्वन् सखिभ्यः हविः प्रदानेनोपकारकत्वात् मित्रेभ्यः ऋत्विग्भ्यः हव्यः आह्वातव्यः हवनयोग्योवा बभूव । तत्रदृष्टान्तः-सोमोन यथा पीतःसोमः यष्टृभ्यः स्वर्गादिफलानि कुर्वन् देवैराह्वातव्योभवति तद्वत् ॥ २१ ॥

याइन्द्रेति पंचदशर्चं चतुर्थं सूक्तं काश्यपस्य रेभस्यार्षमैन्द्रम् । दशम्यतिजगती द्वापंचाशदक्षरा । एकादशीद्वादश्यावुपरिष्टाद्ब्हत्यौ त्र्यष्टकांत- द्वादशकवत्यौ त्रयोदश्यतिजगती चतुर्दशीत्रिष्टुप् पंचदशी जगती शिष्टाबृहत्यः । तथाचानुक्रम्यते-याइन्द्रपंचोना रेभः काश्यपो बार्हतमतिजग- त्युपरिष्टाद्बृहत्यावतिजगतीत्रिष्टुप् जगतीत्यन्ततइति । सूक्तविनियोगोलैंगिकः । महाव्रते निष्केवल्ये बार्हततृचारीतौ याइन्द्रेत्यादिनवर्चः तथै- वपंचमारण्यके सूत्र्यते-याइन्द्रभुजाअभरइति नव सूददोहाइति । चातुर्विंशिकेहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिनो वैकल्पिकानुरूपतृचस्य याइन्द्रेत्यादिके द्वे द्वितीयातृतीये । सूत्र्यतेच-तमिन्द्रंजोहवीमि याइन्द्रभुजआभर इत्येकाद्वेचेति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५