मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् १

संहिता

या इ॑न्द्र॒ भुज॒ आभ॑र॒ः स्व॑र्वाँ॒ असु॑रेभ्यः ।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

पदपाठः

याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः ।
स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥

सायणभाष्यम्

ऋषिरिन्द्रं प्रार्थयते हे इन्द्र स्वर्वान् सुखवान् स्वर्गवान्वा अथवा स्वसब्दः सर्वपर्यायः सर्वभूतजातमात्मनएवोत्पन्नत्वात् तद्वान् एवंगुणस्त्वं याः यानि भुजो भोक्तव्यानि धनानि असुरेभ्यो बलवड्भ्यो राक्षसेभ्यः आभरः आहरः तान् हत्वा आहृतवानसि । हृग्रहोरितिभकारादेशः । अतएव हे मघवन् धनवन्निन्द्र अस्य अन्वादेशे अशादेशः एतस्यास्य धनस्यदानेन स्तोतारमित् तवस्तोत्रकारिणमेव वर्धय वृद्धिमन्तंकुरु । येचान्ये यष्टारः त्वे त्वदर्थं वृक्तबर्हिषः स्तीर्णबर्हिषोभवन्ति अतस्तांश्च धनेन वर्धय ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६