मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् २

संहिता

यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् ।
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥

पदपाठः

यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् ।
यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥

सायणभाष्यम्

हे इन्द्र त्वं यमश्वं गमनसाधनान् हरीन् गां अग्निहोत्रकर्मणि पयःप्रदानेनोपकारिकागाः अव्ययं व्ययरहितं अविनश्वरं भागं भजनीयं धनं सर्वत्रै- कत्वमविवक्षितं एतान् शत्रुभ्यः आहृत्य दधिषे धत्से बिभर्षि । तं सर्वं सुन्वति सोमाभिषवं कुर्वति दक्षिणावति यज्ञे ऋत्विग्भ्योदक्षिणादेयत्वेन तद्वति यजमाने यागंकुर्वाणे तस्मिन् त्वं धेहि । सर्वत्रधनादिदानं माकुर्वित्याह मापणौ पणव्यवहारे द्रव्यव्यवहारादयष्टाजनः पणिः तस्मिन् एतत्सर्वं मादेहि ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६