मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ३

संहिता

य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः ।
स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं ततः॑ ॥

पदपाठः

यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः ।
स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥

सायणभाष्यम्

हे इन्द्र अदेवयुः देवान् युष्मानकामयमानः अव्रतोव्रतरहितः कर्मरहितोभूत्वा अनुस्वापं अनुवृत्तस्वप्नं यथाभवति तथा यः सस्ति स्वपिति षसस्वापे आदादिकः सजनः स्वैरात्मीयैः एवैर्गमनैरेव पोष्यं पोषणीयं रयिं स्वीयं धनं मुमुरत् मारयतु विनाशयतु । अमार्गैर्द्यूतादिभिः तस्यधनं नश्यतु नतु देवानां हविःप्रदानेनेति । ततः त्वं तमयष्टारं जनं सनुतरित्यन्तर्हितनाम सनुतः अन्तर्हिते कर्मरहिते कस्मिंश्चिद्देशे धेहि स्थापय ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६