मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ५

संहिता

यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ ।
यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ॥

पदपाठः

यत् । वा॒ । असि॑ । रो॒च॒ने । दि॒वः । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।
यत् । पार्थि॑वे । सद॑ने । वृ॒त्र॒ह॒न्ऽत॒म॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र यद्वा यदिवा दिवोद्युलोकस्य रोचने दीपनशीले स्थाने असि भवसि । यद्वा समुद्रस्य मध्ये अधि अधिगते विष्टपि विष्टपे तत्संबद्धे कस्मिं- श्चित्स्थाने भवसि । हे वृत्रहन्तम अतिशयेन वृत्रस्यासुरस्य पापस्य वा हन्तरिन्द्र यद्यदिवा पार्थिवे पृथिव्यांभवे सदने स्थाने विद्यसे यदिवा अन्तरिक्षे तस्मिन् लोके वर्तसे यत्रकुत्र भवसि तथापि अस्मदीयं यज्ञं प्रत्यागहि आगच्छ ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६