मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ६

संहिता

स न॒ः सोमे॑षु सोमपाः सु॒तेषु॑ शवसस्पते ।
मा॒दय॑स्व॒ राध॑सा सू॒नृता॑व॒तेन्द्र॑ रा॒या परी॑णसा ॥

पदपाठः

सः । नः॒ । सोमे॑षु । सो॒म॒ऽपाः॒ । सु॒तेषु॑ । श॒व॒सः॒ । प॒ते॒ ।
मा॒दय॑स्व । राध॑सा । सू॒नृता॑ऽवता । इन्द्र॑ । रा॒या । परी॑णसा ॥

सायणभाष्यम्

हे सोमपाः सोमस्यपातः हे शवसस्पते बलस्यपालयितरिन्द्र सपूर्वोक्तलक्षणस्त्वं सुतेष्वस्माभिरभिषुतेषु सोमेषु नोस्मान् राधसा बलसाधनान्नेन सूनृतावता अनृतरहितत्वोपेतेन । यद्वा सूनृतेति वाङ्नाम शोभनवाक्ययुक्तेन । अनेन पुत्रादिकं लक्ष्यते पुत्रोपेतेनान्नेन परीणसा बहुनामैतत् बहुना राया धनेनच नोस्मान्मादयस्व मोदय सोमस्य प्रदातृभ्योस्मभ्यमन्नपुत्रधनादिकं देहीत्यर्थः ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७