मा न॑ इन्द्र॒ परा॑ वृण॒ग्भवा॑ नः सध॒माद्य॑ः ।
त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा॑ वृणक् ॥
मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् । भव॑ । नः॒ । स॒ध॒ऽमाद्यः॑ ।
त्वम् । नः॒ । ऊ॒ती । त्वम् । इत् । नः॒ । आप्य॑म् । मा । नः॒ । इ॒न्द्र॒ । परा॑ । वृ॒ण॒क् ॥
हे इन्द्र मो हविषांप्रदातॄनस्मान्मापरावृणक् मापरित्याक्षीः वृजीवर्जने रौधादिकः लङि रूपम् । तदेवाह-त्वं नोस्माकं सोमेन सधमाद्यः सहमादन- शीलोभव । किंच हे इन्द्र नोस्मान् त्वमेव ऊती ऊत्यां स्थापय । यद्वा ऊती व्यत्ययेन कर्तरि क्तिचि वा निपातितः त्वमेवास्माकं रक्षिता खलु । तथा त्वमित् इदवधारणे त्वमेवास्माकमाप्यं ज्ञातेयं त्वमेव बन्धुरित्यर्थः । अतएव मानइन्द्रपरावृणगिति एषगतोर्थः ॥ ७ ॥