मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ९

संहिता

न त्वा॑ दे॒वास॑ आशत॒ न मर्त्या॑सो अद्रिवः ।
विश्वा॑ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा॑ दे॒वास॑ आशत ॥

पदपाठः

न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ । न । मर्त्या॑सः । अ॒द्रि॒ऽवः॒ ।
विश्वा॑ । जा॒तानि॑ । शव॑सा । अ॒भि॒ऽभूः । अ॒सि॒ । न । त्वा॒ । दे॒वासः॑ । आ॒श॒त॒ ॥

सायणभाष्यम्

हे अद्रिवो वज्रवन्निन्द्र त्वा त्वां देवासः त्वदन्ये सर्वे देवाः नाशत स्वकर्मणा स्वबलेन वा नव्याप्नुवन्ति । नमर्त्यासो मर्त्या मनुष्याश्च न व्याप्नुवन्ति । कुतएतदवसीयते तदाह-विश्वा विश्वानि सर्वाणि जातानि भूतजातानि शवसा स्वबलेनैवाभिभूरसि अभिभावुकोसि भवसि । तस्मात् नत्वादेवासआशतेतिगतार्थः ॥ ९ ॥ चातुर्विंशिकेहनि माध्यन्दिनसवने ब्राह्मणाच्छंसिनो विश्वाःपृतनाइति वैकल्पिकःस्तोत्रियः । सूत्रितंच-विश्वाःपृतनाअभिभतरंनरं तमिन्द्रं- जोहवीमीति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७