मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् ११

संहिता

समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑ ।
स्व॑र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभि॑ः ॥

पदपाठः

सम् । ई॒म् । रे॒भासः॑ । अ॒स्व॒र॒न् । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ।
स्वः॑ऽपतिम् । यत् । ई॒म् । वृ॒धे । धृ॒तऽव्र॑तः । हि । ओज॑सा । सम् । ऊ॒तिऽभिः॑ ॥

सायणभाष्यम्

रेभासः रेभृशब्दे शब्दयितारः स्तोतारः यद्वा रेभासः कश्यपपुत्रारेभाः एतन्नामकाऋषयः ईमेनमिन्द्रं समस्वरन् सम्यगशब्दयन् समस्तुवन् । किमर्थं सोमस्य पीतये सोमपानाय । किंच स्वर्पतिं स्वर्गस्यपालयितारं धनस्यस्वामिनंवा ईमेनमिन्द्रं यद्यदा वृधे हविर्भिर्वर्धनाय संस्तुवन्ति तथा धृतव्रतो धृकर्मेन्द्रः ओजसा बलेन स्तोतृभिः ऊतिभिर्मरुद्धिः पालनैश्चसह संगच्छते स्तुतिभिर्बलंमरुद्भिः पालनं चेन्द्रस्य भवतित्यर्थः ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८