मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् १५

संहिता

तन्म॑ ऋ॒तमि॑न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ ।
क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ॥

पदपाठः

तत् । मा॒ । ऋ॒तम् । इ॒न्द्र॒ । शू॒र॒ । चि॒त्र॒ । पा॒तु॒ । अ॒पः । न । व॒ज्रि॒न् । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ । भूरि॑ ।
क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ । वि॒श्वऽप्स्न्य॑स्य । स्पृ॒ह॒याय्य॑स्य । रा॒ज॒न् ॥

सायणभाष्यम्

हे शूर बलवन् चित्र चायनीय विविधरूपवा । इन्द्रामायोभिःपुरुरूपईयतइत्यादिषुदृष्टत्वात् । बहुविधरूप हे इन्द्र तत् प्रशस्तं त्वदीयं ऋतं सत्यं मा मां पातु सर्वतोरक्षतु । किंच हे वज्रिन् वज्रवन्निन्द्र भूरि सुपोलुक् भूरीणि बहूनि दुरिता दुरितानि पापानि अतिपर्षि अतीत्य पारय । तत्रदृष्टान्तः-अपोन यथा नाविकउदकानि मनुष्यान्पारयति तद्वदस्मान् पापानि पारय । हे राजन् दीप्यमान हे इन्द्र विश्वप्स्यस्य प्सइति रूपनाम रूपे साधु प्स्यं नकारोपजनश्छान्दसः । बहुरूपं तत् स्पृहयाय्यस्य सर्वैः स्पृहणीयं रायः क्रियाग्रहणमिति संप्रदानसंज्ञा चतुर्थ्यर्थे बहुलमिति षष्ठी । तद्धनं नोस्मभ्यं आ आभिमुख्येन कदा दशस्येः कस्मिन्काले प्रयच्छेः तदा तव स्वभूतं सत्यं मां रक्षतु मह्यं धनं दत्वा कर्माणि च कारयित्वा मया हेतुभूतेन तुष्टाय्य मां पापरहितं कुर्वित्यर्थः ॥ १५ ॥

वेदार्थस्यप्रकाशेन तमोहार्दं निवारयन् । पुमर्थांश्चतुरोदेयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इतिश्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्सं- हिताभाष्ये षष्ठाष्टके षष्ठोध्यायः ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८