मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ३

संहिता

वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॒॑रग॑च्छो रोच॒नं दि॒वः ।
दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ॥

पदपाठः

वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वः॑ । अग॑च्छः । रो॒च॒नम् । दि॒वः ।
दे॒वाः । ते॒ । इ॒न्द्र॒ । स॒ख्याय॑ । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं ज्योतिषा तेजसा दिवआदित्यस्य रोचनं प्रकाशकमधिकरणत्वेन स्वः स्वर्गं विभ्राजन् प्रकाशयन् अगच्छः अप्राप्नोः । किंच देवाः सर्वे ते तव सख्याय मित्रत्वाय येमिरे स्वंस्वमात्मानं नियमितवन्तः । अस्माकमिन्द्रः सखा यथास्यादिति सर्वे देवाः प्रयत्नमकार्षुरित्यर्थः ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः