मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ४

संहिता

एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः ।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥

पदपाठः

आ । इ॒न्द्र॒ । नः॒ । ग॒धि॒ । प्रि॒यः । स॒त्रा॒ऽजित् । अगो॑ह्यः ।
गि॒रिः । न । वि॒श्वतः॑ । पृ॒थुः । पतिः॑ । दि॒वः ॥

सायणभाष्यम्

हे इन्द्र प्रियः प्रियतमः सत्राजित् महतां जेता अगोह्यः केनापि गूहितुमशक्यो गिरिनं पर्वतइव विश्वतः सर्वतः पृथुः पृथुतमोदिवः स्वर्गस्य पतिरीश्वरस्त्वं नोस्मानागधि आगच्छ ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः