मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ६

संहिता

त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ ।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥

पदपाठः

त्वम् । हि । शश्व॑तीनाम् । इन्द्र॑ । द॒र्ता । पु॒राम् । असि॑ ।
ह॒न्ता । दस्योः॑ । मनोः॑ । वृ॒धः । पतिः॑ । दि॒वः ॥

सायणभाष्यम्

हे इन्द्र त्वं शश्वतीनां बह्वीनां पुरां शत्रुनगरीणां दर्तासि दारयिता भवसि । किंच दस्योः उपक्षपयितुरसुरस्य हंतासि घातकोभवसि मनोर्म- नुष्यस्य यागादिकं कुर्वतो वृधोवर्धकश्चासि दिवः स्वर्गस्यापि पतिरीश्वरोसि ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः