मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ८

संहिता

वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि ।
वा॒वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥

पदपाठः

वाः । न । त्वा॒ । य॒व्याभिः॑ । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि ।
व॒वृ॒ध्वांस॑म् । चि॒त् । अ॒द्रि॒ऽवः॒ । दि॒वेऽदि॑वे ॥

सायणभाष्यम्

हे अद्रिवो वज्रिन् शूरेन्द्र वार्ण यथोदकमुदकस्थानं यव्याभिर्नदीभिः । अवनयः यव्याः इति नदीनामसुपाठात् । वर्धन्ति वर्धयन्ति । तथा ब्रह्माणि स्तोत्रैर्ववृध्वांसं चित् यथा निरुदकं देशं नदीभिस्तथा न । किंतु प्रवृद्धमेव त्वां दिवेदिवे अन्वहं वर्धयन्ति स्तोतारोवर्धयन्ति ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः