मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ९

संहिता

यु॒ञ्जन्ति॒ हरी॑ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे ।
इ॒न्द्र॒वाहा॑ वचो॒युजा॑ ॥

पदपाठः

यु॒ञ्जन्ति॑ । हरी॒ इति॑ । इ॒षि॒रस्य॑ । गाथ॑या । उ॒रौ । रथे॑ । उ॒रुऽयु॑गे ।
इ॒न्द्र॒ऽवाहा॑ । व॒चः॒ऽयुजा॑ ॥

सायणभाष्यम्

इषिरस्य गमनशीलस्य इन्द्रस्य उरुयुगे महायुगे उरौ महति रथे इन्द्रवाहा इन्द्रस्य वाहनभूतौ वचोयुजा वचनमात्रेणैव युज्यमानौ हरी अश्वौ गाथया स्तोत्रेण स्तोतारोयुञ्चन्ति योजयन्ति ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः