मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् ११

संहिता

त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ ।
अधा॑ ते सु॒म्नमी॑महे ॥

पदपाठः

त्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । मा॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ ।
अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

हे वसो वासयितः शतक्रतो बहुकर्मन्निन्द्र त्वं नोस्माकं पिता पितृवत्पालको बभूविथ भव । त्वं माता मातृवद्धारकश्च बभूविथ । अध अथ्च वयं ते तव स्वभूतं सुम्नं सुखमीमहे याचामहे ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः