मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् १

संहिता

त्वामि॒दा ह्यो नरोऽपी॑प्यन्वज्रि॒न्भूर्ण॑यः ।
स इ॑न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ॥

पदपाठः

त्वाम् । इ॒दा । ह्यः । नरः॑ । अपी॑प्यन् । व॒ज्रि॒न् । भूर्ण॑यः ।
सः । इ॒न्द्र॒ । स्तोम॑ऽवाहसाम् । इ॒ह । श्रु॒धि॒ । उप॑ । स्वस॑रम् । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे वज्रिन् इन्द्र यं त्वां भुर्णयो हविर्भिर्भरणशीलाः नरः कर्मणां नेतारोयजमाना इदा अद्य ह्यश्च अपीप्यन् सोममपाययन् सत्वं स्तोमवाहसां स्तोत्रवाहकानामस्माकं स्तोत्रं इह यज्ञे श्रुधि शृणु । स्वसरं गृहंच । दुर्याः स्वसराणीति गृहनामसु पाठात् । उपागहि उपागच्छ ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः