मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् २

संहिता

मत्स्वा॑ सुशिप्र हरिव॒स्तदी॑महे॒ त्वे आ भू॑षन्ति वे॒धसः॑ ।
तव॒ श्रवां॑स्युप॒मान्यु॒क्थ्या॑ सु॒तेष्वि॑न्द्र गिर्वणः ॥

पदपाठः

मत्स्व॑ । सु॒ऽशि॒प्र॒ । ह॒रि॒ऽवः॒ । तत् । ई॒म॒हे॒ । त्वे इति॑ । आ । भू॒ष॒न्ति॒ । वे॒धसः॑ ।
तव॑ । श्रवां॑सि । उ॒प॒ऽमानि॑ । उ॒क्थ्या॑ । सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे सुशिप्र शोभनोष्णीषिन् वा हरिवः अश्ववन् गिर्वणो गीर्भिर्वननीयेन्द्र त्वे त्वयि वेढसः परिचारका आभूषन्त्याभवन्ति । मत्स्व सोमेन मादयात्मानम् । किंच तत् त्वां वयमीमहे याचामहे । किंयाच्यमित्यत्राह-सुतेषु सोमेषु अभिषुतेषु सत्सु तव श्रवांस्यन्नानि उपमानि उपमानभूतानि उक्थ्या प्रशंस्यानि च सन्त्विति ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः