मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ३

संहिता

श्राय॑न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत ।
वसू॑नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी॑धिम ॥

पदपाठः

श्राय॑न्तःऽइव । सूर्य॑म् । विश्वा॑ । इत् । इन्द्र॑स्य । भ॒क्ष॒त॒ ।
वसू॑नि । जा॒ते । जन॑माने । ओज॑सा । प्रति॑ । भा॒गम् । न । दी॒धि॒म॒ ॥

सायणभाष्यम्

हे अस्मदीयाजनाः श्रायन्तइव सूर्यं यथा समाश्रितारश्मयः सुर्यं भजन्ते तथेन्द्रस्य विश्वेत् विश्वान्येव धनानि भक्षत भजत । सच यानि वसूनि धनानि जाते उत्पन्ने जनमाने जनिष्यमाणे चौजसा बलेन करोति । अतः भागंन पित्र्यं भागमिव तानि धनानि प्रतिदीधिम प्रतिधारयेमेति । यद्वा श्रायन्तइव सूर्यं यथा समाश्रितारश्मयः सूर्यमुपतिष्ठन्ते तथेन्द्रस्य विश्वा विश्वानि विभक्तुमिच्छन्तः समाश्रितामरुतः इन्द्रमुपतिष्ठन्तइतिशेषः । उपस्थायच मरुतो वसून्युदकओलक्षणानि धनानि जाते जाताय जनमाने जनिष्यमाणायच मनुष्यायच ओजसा बलेन भक्षत विभजन्ते । तत्र- चास्माकं योभागः तं भागम् । नेतिसंप्रत्यर्थे । प्रतीत्येष अनु इत्येतस्य स्थाने । अनुदीधिम वयं अनुध्यायाम । तथाचयास्कः-समाश्रिताः सूर्य- मुपतिष्ठन्ते अपिवोपमार्थे स्यात्सूर्यमिवेन्द्रमुपतिष्ठन्तइति । सर्वाणीन्द्रस्यधनानि विभक्ष्यमाणाः सयथा धनानि विभजति जातेच जनिष्य- माणेच तं वयं भागमनुध्यायेमेति ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः