मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ५

संहिता

त्वमि॑न्द्र॒ प्रतू॑र्तिष्व॒भि विश्वा॑ असि॒ स्पृधः॑ ।
अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू॑र्य तरुष्य॒तः ॥

पदपाठः

त्वम् । इ॒न्द्र॒ । प्रऽतू॑र्तिषु । अ॒भि । विश्वाः॑ । अ॒सि॒ । स्पृधः॑ ।
अ॒श॒स्ति॒ऽहा । ज॒नि॒ता । वि॒श्व॒ऽतूः । अ॒सि॒ । त्वम् । तू॒र्य॒ । त॒रु॒ष्य॒तः ॥

सायणभाष्यम्

हे इन्द्र त्वं प्रतूर्तिषु संग्रामेषु विश्वाः सर्वाः स्पृधोयुद्धकारिणीः शत्रुसेनाः अभ्यसि अभिभवसि । किंच हे तूर्य शत्रूणां बाधकेन्द्र त्वं अशस्तिहा दैत्यानामशस्तीनां हन्तासि । जनिता असुरेभ्यः अशस्तीनां जनिताचासि । विश्वतूः विश्वतः सर्वस्य शत्रुवर्गस्य हिंसिताचासि तरुष्यतो बाधकांश्च बाधमानोसि ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः