मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ७

संहिता

इ॒त ऊ॒ती वो॑ अ॒जरं॑ प्रहे॒तार॒मप्र॑हितम् ।
आ॒शुं जेता॑रं॒ हेता॑रं र॒थीत॑म॒मतू॑र्तं तुग्र्या॒वृध॑म् ॥

पदपाठः

इ॒तः । ऊ॒ती । वः॒ । अ॒जर॑म् । प्र॒ऽहे॒तार॑म् । अप्र॑ऽहितम् ।
आ॒शुम् । जेता॑रम् । हेता॑रम् । र॒थिऽत॑मम् । अतू॑र्तम् । तु॒ग्र्य॒ऽवृध॑म् ॥

सायणभाष्यम्

हे अस्मदीयजनाः वोयूयं अजरं जरारहितं प्रहेतारं शत्रूणां प्रेरकं अप्रहितं केनाप्यप्रेषितं आशुं वेगवन्तं जेतारं शत्रूणां हेतारं गन्तारं रथीतमं रथिनां श्रेष्ठं अतूर्तं केनाप्यहिंसितं तुग्र्यावृधं उदकस्य वर्धयितारमिन्द्रं ऊती ऊत्यै रक्षणाय इतः कुरुत पुरस्कुरुतेतियावत् ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः