मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९९, ऋक् ८

संहिता

इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू॑तिं श॒तक्र॑तुम् ।
स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव॑म् ॥

पदपाठः

इ॒ष्क॒र्तार॑म् । अनिः॑ऽकृतम् । सहः॑ऽकृतम् । श॒तम्ऽऊ॑तिम् । श॒तऽक्र॑तुम् ।
स॒मा॒नम् । इन्द्र॑म् । अव॑से । ह॒वा॒म॒हे॒ । वस॑वानम् । व॒सु॒ऽजुव॑म् ॥

सायणभाष्यम्

इष्कर्तारं शत्रूणां संस्कर्तारं अनिष्कृतं स्वयमन्यैरसंस्कृतं सहस्कृतं बलेनकृतं शतमूर्तिं बहुरक्षणं शतक्रतुं बहुप्रज्ञं बहुकर्माणं वा समानं बहूनां साधारणं वसवानं धनान्याच्छादयन्तं वसूजुवं यजमानेभ्योवसूनां प्रेरयितारमिन्द्रं अवसे रक्षणाय वयं हवामहे ह्वयामः ॥ ८ ॥

अयंतइति द्वादशर्चं सप्तमं सूक्तं भृगुगोत्रस्य नेमस्यार्षं अयमस्मिजरितरिति द्वृचेनेन्द्रोनेमसमीपमेत्य स्वकीयं माहात्म्यमवोचत् अतस्तस्य द्वृचस्य सएवऋषिः यस्यवाक्यं सऋषिरिति न्यायात् । षष्ठी जगती सप्तम्याद्यास्तिस्रोनुष्टुभः शिष्टास्त्रिष्टुभः इन्द्रोदेवता यद्वाग्वदन्ती देवींवाच- मित्येते वाग्देवत्ये शिष्टाऎन्द्र्यः । तथाचानुक्रान्तं-अयंतेद्वादश नेमोभर्गवस्त्रैष्टुभं षष्ठीजगती परास्तिस्रोनुष्टुभः अयमितिद्वृचेनेन्द्र आत्मानम- स्तौदुपान्त्येवाच्याविति । वाग्देवत्ये पशौ यद्वाग्वदन्तीति वपायाअनुवाक्या । सूत्रितंच-यद्वाग्वदन्त्यविचेतनानि पतंगोवाचंमनसाबिभर्तीति । पूर्वोक्तएव पशौ देवींवाचमिति हविषोयाज्या । सूत्रितंच-देवींवाचमजनयन्तदेवा जनीयन्तोन्वग्रवइति तिस्रइति । प्रयाणसमये वयसाममनो- ज्ञावाचः श्रुत्वा एतांजपेत् । सूत्रितंच-कनिक्रदज्जनुषं प्रब्रुवाणइति सूक्ते जपेद्देवींवाचमजनयन्तदेवाइतिचेति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः