मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् २

संहिता

दधा॑मि ते॒ मधु॑नो भ॒क्षमग्रे॑ हि॒तस्ते॑ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ ।
अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा॑ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ॥

पदपाठः

दधा॑मि । ते॒ । मधु॑नः । भ॒क्षम् । अग्रे॑ । हि॒तः । ते॒ । भा॒गः । सु॒तः । अ॒स्तु॒ । सोमः॑ ।
असः॑ । च॒ । त्वम् । द॒क्षि॒ण॒तः । सखा॑ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ॥

सायणभाष्यम्

हे इन्द्र ते तुभ्यं मधुनो मदकरस्य सोमस्य भक्षमग्रे प्रथमं दधामि धारयामि । सुतोभिषुतोभागो भजनीयः सोमस्ते तव हृदये हितोनिहितोस्तु भवतु । अपिच त्वं मे मम दक्षिणतो दक्षिणपार्श्वे सखासन् असः स्थितोभव । अध अथ भूरि बहूनि वृत्राण्यस्मदीयान् शत्रून् जंघनाव । त्वमहंचोभावावां हन्वः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः