मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ३

संहिता

प्र सु स्तोमं॑ भरत वाज॒यन्त॒ इन्द्रा॑य स॒त्यं यदि॑ स॒त्यमस्ति॑ ।
नेन्द्रो॑ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं॑ ददर्श॒ कम॒भि ष्ट॑वाम ॥

पदपाठः

प्र । सु । स्तोम॑म् । भ॒र॒त॒ । वा॒ज॒ऽयन्तः॑ । इन्द्रा॑य । स॒त्यम् । यदि॑ । स॒त्यम् । अस्ति॑ ।
न । इन्द्रः॑ । अ॒स्ति॒ । इति॑ । नेमः॑ । ऊं॒ इति॑ । त्वः॒ । आ॒ह॒ । कः । ई॒म् । द॒द॒र्श॒ । कम् । अ॒भि । स्त॒वा॒म॒ ॥

सायणभाष्यम्

हे जना वाजयन्तः संग्राममिच्छन्तोयूयम् । पौंस्ये वाजे इति संग्रामनामसु पाठात् । इन्द्राय सत्यं सत्यभूतं स्तोमं सु सुष्ठु प्रभरत इन्द्रोस्तीत्येतत् यदि सत्यमस्ति भवति । इन्द्रास्तिस्त्वे कः संदेहः तत्राह-नेमउ भार्गवोनेम एवेन्द्रोनाम त्वः कश्चिन्नास्तीत्याह । तत्र कारणं दर्शयतिकः ईमेनमिन्द्रं ददर्श अद्राक्षीत् नकोप्यपश्यत् अतः कं वयमभिष्टवाम अभिष्टुमः । तस्मादिन्द्रोनाम कश्चिद्विद्यते इतिवादमात्रं नतु तत्सत्यमित्यर्थः ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः