प्र नू॒नं धा॑वता॒ पृथ॒ङ्नेह यो वो॒ अवा॑वरीत् ।
नि षीं॑ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो॑ अपीपतत् ॥
प्र । नू॒नम् । धा॒व॒त॒ । पृथ॑क् । न । इ॒ह । यः । वः॒ । अवा॑वरीत् ।
नि । सी॒म् । वृ॒त्रस्य॑ । मर्म॑णि । वज्र॑म् । इन्द्रः॑ । अ॒पी॒प॒त॒त् ॥
यः शत्रुर्नूनमिदानीं प्रधावत् प्रधावति पृथगिह पृथक् न तिष्ठति च वोयुष्मान्नावावरीत् न विवारयतिच तस्य वृत्रस्य शत्रोर्मर्मणि मर्मस्थाने इन्द्रोवज्रं कुलिशं न्यपीपतत् नितरां अपातयत् ॥ ७ ॥