मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ८

संहिता

मनो॑जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर॑म् ।
दिवं॑ सुप॒र्णो ग॒त्वाय॒ सोमं॑ व॒ज्रिण॒ आभ॑रत् ॥

पदपाठः

मनः॑ऽजवाः । अय॑मानः । आ॒य॒सीम् । अ॒त॒र॒त् । पुर॑म् ।
दिव॑म् । सु॒ऽप॒र्णः । ग॒त्वाय॑ । सोम॑म् । व॒ज्रिणः॑ । आ । अ॒भ॒र॒त् ॥

सायणभाष्यम्

सुपर्णो गरुत्मान् मनोजवाः मनोवेगः अयमानोगच्छन् आयसीं हिरण्मयीं पुरं नगरीं अतरत् अतारीत् । ततोदिवं स्वर्गं गत्वाय गत्वा वज्रिणे इन्द्राय सोममाभरदाहरच्च ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः