मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् १०

संहिता

यद्वाग्वद॑न्त्यविचेत॒नानि॒ राष्ट्री॑ दे॒वानां॑ निष॒साद॑ म॒न्द्रा ।
चत॑स्र॒ ऊर्जं॑ दुदुहे॒ पयां॑सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ॥

पदपाठः

यत् । वाक् । वद॑न्ती । अ॒वि॒ऽचे॒त॒नानि॑ । राष्ट्री॑ । दे॒वाना॑म् । नि॒ऽस॒साद॑ । म॒न्द्रा ।
चत॑स्रः । ऊर्ज॑म् । दु॒दु॒हे॒ । पयां॑सि । क्व॑ । स्वि॒त् । अ॒स्याः॒ । प॒र॒मम् । ज॒गा॒म॒ ॥

सायणभाष्यम्

राष्ट्री राजनशीला देवानां मन्द्रा मादयित्री वा यद्यदा वाक् अविचेतनानि विज्ञानरहितान् अप्रज्ञातान् अर्थान् वदन्ती प्रज्ञापयन्ती निषसाद यज्ञेनिषीदति तदा चतस्रोदिशः प्रति ऊर्जमन्नं पयांसि तत्कारणभूतान्युदकानि दुदुहे अस्यामाध्यमिकायावाचः स्वभूतं यत्परमं श्रेष्ठं तत् क्वस्वित् क्वजगाम क्वगच्छतीति तदृश्यतइत्यर्थः । तथाचयास्कः-यद्वाग्वदन्त्यविचेतनान्यविज्ञातानि राष्ट्रीदेवानां निषसाद मन्द्रा मदनाच्चत- स्रोनुदिशऊजे दुदुहे पयांसि क्वस्विदस्याः परमं जगामेति यत्पृथिवीं गच्छतीतिवा मदादित्यरश्मयो हरन्तीतिवेति ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः