मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् ११

संहिता

दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

पदपाठः

दे॒वीम् । वाच॑म् । अ॒ज॒न॒य॒न्त॒ । दे॒वाः । ताम् । वि॒श्वऽरू॑पाः । प॒शवः॑ । व॒द॒न्ति॒ ।
सा । नः॒ । म॒न्द्रा । इष॑म् । ऊर्ज॑म् । दुहा॑ना । धे॒नुः । वाक् । अ॒स्मान् । उप॑ । सुऽस्तु॒ता । आ । ए॒तु॒ ॥

सायणभाष्यम्

एषा माध्यमिका सर्वप्राण्यन्तर्गता धर्माभिवादिनी भवतीति विभूतिमुपदर्शयति । यां देवीं द्योतमानां माध्यमिकां वाचं देवामाध्यमिका अजनयन्त जनयन्ति तां वाचं विश्वरीपाः सर्वरूपाः व्यक्तवाचः अव्यक्तवाचश्च परावोवदन्ति तत्पूर्वकत्वाद्वाक्प्रवृत्तेः । सा वाग्देवीमन्द्रा मदना स्तुत्या हर्षयित्री वा वृष्टिप्रदानेन नोस्मभ्यं इषमन्नं ऊर्जं पयोघृतादिरूपं रसं च दुहाना क्षरन्ती धेनुः धेनुभूता सुष्टुताऽस्माभिःस्तुताऽस्मान् नेमान् उपैतु उपगच्छतु वर्षणायोद्युक्ता भवत्वित्यर्थः । तथाचयास्कः-देवींवाचमजनयन्तदेवास्तांविश्वरूपाः पशवोवदन्ति व्यक्तवाचश्चाव्यक्तवाचश्च सानोमदनान्नंच रसंच दुहाना धेनुर्वागस्मानुपैतुसुष्टुतेति ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः