मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् २

संहिता

वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
ता बा॒हुता॒ न दं॒सना॑ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ॥

पदपाठः

वर्षि॑ष्ठऽक्षत्रौ । उ॒रु॒ऽचक्ष॑सा । नरा॑ । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।
ता । बा॒हुता॑ । न । दं॒सना॑ । र॒थ॒र्य॒तः॒ । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

वर्षिष्ठक्षत्रौ अतिशयेनवृद्धबलौ उरुचक्षसा महादर्शनौ नरा नेतारौ कर्मणां राजाना दीप्यमानौ दीर्घश्रुत्तमा अतिशयेन विद्वांसौ ता तौ मित्रावरुणौ बाहुता न भुजाविव सूर्यस्यरश्मिभिः करणैः साकं सह दंसना दंसनानि कर्माणि । अपः अप्नः दंस इति कर्मनामसु पाठात् । रथर्यतः प्राप्नुतः यथा बाहू सह कर्म प्राप्नुतः तथा मित्रावरुणौ सह यज्ञं प्राप्नुतइत्यर्थः ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः