मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ३

संहिता

प्र यो वां॑ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् ।
अयः॑शीर्षा॒ मदे॑रघुः ॥

पदपाठः

प्र । यः । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒जि॒रः । दू॒तः । अद्र॑वत् ।
अयः॑ऽशीर्षा । मदे॑ऽरघुः ॥

सायणभाष्यम्

हे मित्रावरुणौ वां युवां अजिरो गमनशीलो यो यजमानः प्राद्रवत् अभिगच्छति सदेवानां दूतोभवति । अयःशीर्षा हिरण्यालंकृतशिराश्च भवति । मदेरघुः मदकरे धने गन्ताच भवति ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः