मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ५

संहिता

प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो ।
व॒रू॒थ्यं१॒॑ वरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ॥

पदपाठः

प्र । मि॒त्राय॑ । प्र । अ॒र्य॒म्णे । स॒च॒थ्य॑म् । ऋ॒त॒व॒सो॒ इत्यृ॑तऽवसो ।
व॒रू॒थ्य॑म् । वरु॑णे । छन्द्य॑म् । वचः॑ । स्तो॒त्रम् । राज॑ऽसु । गा॒य॒त॒ ॥

सायणभाष्यम्

हे ऋतवसो यज्ञधन मित्राय सचथ्यं सेवार्हं वरूथ्यं यज्ञगृहभवं च स्तोत्रं प्रगायत प्रकर्षेण गायत अर्यम्णेच प्रगायत वरुणे छन्द्यं प्रीणनसाधनं चैतादृशं वचः प्रगायत । प्रगायतेति बहुवचनं पूजार्थम् । एतदेव दर्शयति राजसु मित्रादिषु राजसु स्तोत्रं गायत पठत मित्रादीन् त्रीन् राज्ञः स्तुतेति समुदायार्थः ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः