मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ६

संहिता

ते हि॑न्विरे अरु॒णं जेन्यं॒ वस्वेकं॑ पु॒त्रं ति॑सॄ॒णाम् ।
ते धामा॑न्य॒मृता॒ मर्त्या॑ना॒मद॑ब्धा अ॒भि च॑क्षते ॥

पदपाठः

ते । हि॒न्वि॒रे॒ । अ॒रु॒णम् । जेन्य॑म् । वसु॑ । एक॑म् । पु॒त्रम् । ति॒सॄ॒णाम् ।
ते । धामा॑नि । अ॒मृताः॑ । मर्त्या॑नाम् । अद॑ब्धाः । अ॒भि । च॒क्ष॒ते॒ ॥

सायणभाष्यम्

अरुणमरुणवर्णं जेन्यं जयसाधनं वसु वासकं तिसॄणां पृथिव्यादीनामेकं पुत्रं ते देवाहिन्विरे प्रेरयन्ति त्रैलोक्यस्य तमोनिवारणाय । किंच अदब्धाः केनाप्यहिंसिताः अमृताः मरणरहितास्तेदेवाः मर्त्यानां मनुष्याणां धामानि स्थानानि अभिचक्षते अभिपश्यन्ति ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः