मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ७

संहिता

आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा॑ ।
उ॒भा या॑तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये॑ ॥

पदपाठः

आ । मे॒ । वचां॑सि । उत्ऽय॑ता । द्यु॒मत्ऽत॑मानि । कर्त्वा॑ ।
उ॒भा । या॒त॒म् । ना॒स॒त्या॒ । स॒ऽजोष॑सा । प्रति॑ । ह॒व्यानि॑ । वी॒तये॑ ॥

सायणभाष्यम्

हे नासत्या नासत्यौ सत्यस्य प्रणेतारौ सजोषसा संगतौ उभा उभौ युवां मे जमदग्नेर्मम उद्यता उद्यतानि द्युमत्तमानि दीप्ततमानि वचांसि स्तोत्ररूपाणि वाक्यानि कर्त्वा कर्माणि चायातम् । किंच हव्यानि हवींषि वीतये भक्षणाय प्रतिगच्छतम् ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः