मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १२

संहिता

बट् सू॑र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे॑व म॒हाँ अ॑सि ।
म॒ह्ना दे॒वाना॑मसु॒र्य॑ः पु॒रोहि॑तो वि॒भु ज्योति॒रदा॑भ्यम् ॥

पदपाठः

बट् । सू॒र्य॒ । श्रव॑सा । म॒हान् । अ॒सि॒ । स॒त्रा । दे॒व॒ । म॒हान् । अ॒सि॒ ।
म॒ह्ना । दे॒वाना॑म् । अ॒सु॒र्यः॑ । पु॒रःऽहि॑तः । वि॒ऽभु । ज्योतिः॑ । अदा॑भ्यम् ॥

सायणभाष्यम्

हे सूर्य त्वं श्रवसा श्रवणेन महान् सर्वाधिकोसि बट् सत्यम् । हे देव द्योतमान सूर्य त्वं देवानां मध्ये मह्ना महत्त्वेन महान् अधिकोसि । सत्रा सत्यमेव असुर्यः असुराणां हन्ताचासि । किंच त्वं देवानां पुरोहितो हितोपदेष्टासि । किंच ते ज्योतिस्तेजोविभु महत् अदाभ्यं केनाप्यहिंस्यं च ॥ १२ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः