मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १३

संहिता

इ॒यं या नीच्य॒र्किणी॑ रू॒पा रोहि॑ण्या कृ॒ता ।
चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॒॑न्तर्द॒शसु॑ बा॒हुषु॑ ॥

पदपाठः

इ॒यम् । या । नीची॑ । अ॒र्किणी॑ । रू॒पा । रोहि॑ण्या । कृ॒ता ।
चि॒त्राऽइ॑व । प्रति॑ । अ॒द॒र्शि॒ । आ॒ऽय॒ती । अ॒न्तः । द॒शऽसु॑ । बा॒हुषु॑ ॥

सायणभाष्यम्

अस्यामृच्युषसःस्तुतिः । सूर्यप्रभायावा । येयं नीची अवाङ्मुखी अर्किणी स्तुतिमती रूपा रूपवती रोहिण्या प्रकाशयुक्ता कृता उषाः सूर्य- प्रभावोत्पादिता सा अन्तर्ब्रह्मांडस्यमध्ये बाहुषु बाहुस्थानीयासु दशसु दशसंख्याकासु दिक्षु आयती आगच्छती चित्रेव चित्रागौरिव प्रत्यदर्शि सर्वैरदृश्यत ॥ १३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः