मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १५

संहिता

मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑ः ।
प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥

पदपाठः

मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ ।
प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥

सायणभाष्यम्

अस्मिन् द्वृचे गौःस्तूयते-या गौः रुद्राणां रुद्रपुत्राणां मरुतां माता जननी वसूनां दुहिता पुत्री आदित्यानां स्वसा भगिनी अमृतस्य पयसोनाभिः आवासस्थानं तां अनागां अनागसं अदितिमदीनां गां गोरुपां देवीं मावधिष्ट हे जना माहिंसिष्टेति चिकितुषे चेतनावते जनाय नु इदानीं प्रवोचं अहं प्रावोचमिति शुश्रूषमाणेभ्यउपदेशः ॥ १५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः