मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १

संहिता

त्वम॑ग्ने बृ॒हद्वयो॒ दधा॑सि देव दा॒शुषे॑ ।
क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥

पदपाठः

त्वम् । अ॒ग्ने॒ । बृ॒हत् । वयः॑ । दधा॑सि । दे॒व॒ । दा॒शुषे॑ ।
क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

सायणभाष्यम्

हे देव द्योतमानाग्ने कविः क्रान्तकर्मा गृहपतिः गृहपालको युवा नित्यतरुणस्त्वं दाशुषे हविषांप्रदात्रे यजमानाय बृहद्वयः महदन्नं दधासि प्रयच्छसीत्यर्थः ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः