मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् २

संहिता

स न॒ ईळा॑नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा॑ ।
चि॒किद्वि॑भान॒वा व॑ह ॥

पदपाठः

सः । नः॒ । ईळा॑नया । स॒ह । दे॒वान् । अ॒ग्ने॒ । दु॒व॒स्युवा॑ ।
चि॒कित् । वि॒भा॒नो॒ इति॑ विऽभानो । आ । व॒ह॒ ॥

सायणभाष्यम्

हे विभानो विशिष्टदीप्ते अग्ने सत्वं चिकित् ज्ञातासन् नोस्माकं दुवस्युवा परिचरणशीलया ईळानया स्तुवत्या वाचासह देवानावह ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः