मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ३

संहिता

त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य ।
अ॒भि ष्मो॒ वाज॑सातये ॥

पदपाठः

त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ ।
अ॒भि । स्मः॒ । वाज॑ऽसातये ॥

सायणभाष्यम्

हे यविष्ठ्य युवतमाग्ने चोदिष्ठेनातिशयेन धनानां प्रेरयित्रा त्वया युजा स्विद्ध सहायेनैव वयं भार्गवाः प्रयोगाः बार्हस्पत्याः पावकाः अग्नयोवा वाजसातये अन्नलाभायाभिष्मः शत्रूनभिभवेम ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः