मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ५

संहिता

हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥

पदपाठः

हु॒वे । वात॑ऽस्वनम् । क॒विम् । प॒र्जन्य॑ऽक्रन्द्यम् । सहः॑ ।
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

सायणभाष्यम्

वातस्वनं वातसदृशध्वनिं कविं क्रान्तकर्माणं पर्जन्यक्रन्द्यं पर्जन्यसदृशक्रन्दनं सहः सहस्विनं वाडवमग्निं हुवे आह्वयामि । अन्यद्गतम् ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः