मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् १०

संहिता

विश्वे॑षामि॒ह स्तु॑हि॒ होतॄ॑णां य॒शस्त॑मम् ।
अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥

पदपाठः

विश्वे॑षाम् । इ॒ह । स्तु॒हि॒ । होतॄ॑णाम् । य॒शःऽत॑मम् ।
अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् ॥

सायणभाष्यम्

विश्वेषां सर्वेषां होतॄणांमध्ये यशस्तमं यशस्वितमं यज्ञेषु पूर्व्यं मुख्यं अग्निमिहास्मदीये यज्ञे हे स्तोतः स्तुहि ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०